मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् ५

संहिता

स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभि॑ः ।
अना॑धृष्टाभि॒रा ग॑हि ॥

पदपाठः

सः । नः॒ । चि॒त्राभिः॑ । अ॒द्रि॒ऽवः॒ । अ॒न॒व॒द्याभिः॑ । ऊ॒तिऽभिः॑ ।
अना॑धृष्टाभिः । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे अद्रिवो वज्रवन्निन्द्र स त्वं चित्राभिश्चायनीयाभिरनवद्याभिरनिन्दिताभिरनाधृष्टाभिः शत्रुभिरप्रधर्षितैरूतिभी रक्षणैः सहितः सस्नोऽस्माना गहि । आगच्छ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७