मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् ६

संहिता

भू॒यामो॒ षु त्वाव॑त॒ः सखा॑य इन्द्र॒ गोम॑तः ।
युजो॒ वाजा॑य॒ घृष्व॑ये ॥

पदपाठः

भू॒यामो॒ इति॑ । सु । त्वाऽव॑तः । सखा॑यः । इ॒न्द्र॒ । गोऽम॑तः ।
युजः॑ । वाजा॑य । घृष्व॑ये ॥

सायणभाष्यम्

हे इन्द्र त्वावतस्त्वत्सदृशस्य गोमतो गोभिर्युक्तस्य देवस्य सम्बन्धिनः सखायः स्तोतारो वयं घृष्वये महते वाजायान्नाय युजः संयुक्ताः सु सुष्ठु भूयामो । भवामैव ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८