मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् ७

संहिता

त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः ।
स नो॑ यन्धि म॒हीमिष॑म् ॥

पदपाठः

त्वम् । हि । एकः॑ । ईशि॑षे । इन्द्र॑ । वाज॑स्य । गोऽम॑तः ।
सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष॑म् ॥

सायणभाष्यम्

हे इन्द्र हि यस्मात्कारणत्त्वमेक एव गोमतो गोभिर्युक्तस्य वाजस्यान्नस्येशिषे । प्रभवसि । अतः कारणात्स त्वं नोऽस्मभ्यं महीं महतीमिषमन्नं यन्तिह् । प्रयच्छ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८