मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् ८

संहिता

न त्वा॑ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् ।
स्तो॒तृभ्य॑ इन्द्र गिर्वणः ॥

पदपाठः

न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् ।
स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥

सायणभाष्यम्

हे इन्द्र गिर्वणो गिरां सम्भक्तः स्तुतोऽस्माभि सम्स्तुतो यद्यदा स्तोतृभ्योऽस्मभ्यं मघं धनं दित्ससि । दातुमिच्छसि । तदा त्वा त्वामन्यथा प्रकारांतरेण न दरन्ते । न निवारयन्ति । किन्तु सर्वेऽप्यनुकूला एव भवन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८