मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १०

संहिता

प्र ते॑ वोचाम वी॒र्या॒३॒॑ या म॑न्दसा॒न आरु॑जः ।
पुरो॒ दासी॑र॒भीत्य॑ ॥

पदपाठः

प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या॑ । याः । म॒न्द॒सा॒नः । आ । अरु॑जः ।
पुरः॑ । दासीः॑ । अ॒भि॒ऽइत्य॑ ॥

सायणभाष्यम्

हे इन्द्र मन्दसानः सोमेन मोदमानस्त्वं दासीः क्षेप्तुरसुरस्य स्वभूता याः पुरो यानि नगराण्यभीत्याभिगम्यारुजः । आ समन्तादभाङ्क्षीः । हे इन्द्र ते त्वदीयानि तत्रत्यानि वीर्या वीर्याणि वयं स्तोतारः प्र वोचाम । प्रकर्षेण वदाम ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८