मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् ११

संहिता

ता ते॑ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ ।
सु॒तेष्वि॑न्द्र गिर्वणः ॥

पदपाठः

ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः॑ । यानि॑ । च॒कर्थ॑ । पौंस्या॑ ।
सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥

सायणभाष्यम्

हे इन्द्र गिर्वणो गिरां स्तुतिरूपाणां वाचां सम्भक्ता त्वं यानि पौंस्या पौंस्यानि बलानि चकर्थ । कृतवानसि । हे इन्द्र वेधसः प्राज्ञाः सुतेष्वभिषुतेषु सोमेषु ते त्वदीयानि ता तानि बलानि गृणन्ति । कीर्तयन्ति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९