मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १७

संहिता

स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिन्द्र॑मीमहे ।
श॒तं सोम॑स्य खा॒र्य॑ः ॥

पदपाठः

स॒हस्र॑म् । व्यती॑नाम् । यु॒क्ताना॑म् । इन्द्र॑म् । ई॒म॒हे॒ ।
श॒तम् । सोम॑स्य । खा॒र्यः॑ ॥

सायणभाष्यम्

वयं स्तोतार इन्द्रं परमैश्वर्ययुक्तं युक्तानां शिक्षितानां व्यतीनां गमनवतामश्वानां सहस्रं सहस्रसंख्याकमीमहे । यचामहे । तथा सोमस्याभिषुतसोमस्य शतं शतसंख्याकाः खार्यः खारीरीमहे । अत्र मानविशेषवाचिना खारीशब्देन द्रोणकलश उपलक्ष्यते । आपरिमितद्रोणकलशान् बहून्यज्ञान्याचामह इत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०