मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १८

संहिता

स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि ।
अ॒स्म॒त्रा राध॑ एतु ते ॥

पदपाठः

स॒हस्रा॑ । ते॒ । श॒ता । व॒यम् । गवा॑म् । आ । च्य॒व॒या॒म॒सि॒ ।
अ॒स्म॒ऽत्रा । राधः॑ । ए॒तु॒ । ते॒ ॥

सायणभाष्यम्

हे इन्द्र ते त्वदीयानि गवां सहस्रा सहस्रसंख्यानि शता शतसंख्याकानि चा च्यावयामसि । आच्यावयामः । अस्मदभिमुखं कुर्मः । तथास्मत्रा अस्मासु त्वदीयं राधो धनं ते त्वत्त एतु । आगच्छतु ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०