मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १९

संहिता

दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि ।
भू॒रि॒दा अ॑सि वृत्रहन् ॥

पदपाठः

दश॑ । ते॒ । क॒लशा॑नाम् । हिर॑ण्यानाम् । अ॒धी॒म॒हि॒ ।
भू॒रि॒ऽदाः । अ॒सि॒ । वृ॒त्र॒ऽह॒न् ॥

सायणभाष्यम्

हे इन्द्र ते त्वत्तः कलशानां कुम्भानाम् । कुम्भपरिमितानामिति यावत् । हिरण्यानां हितरमणीयानां धनानां दश दशसंख्याकान्यधीमहि । धारयामः । हे वृत्रहन्वृत्राणां शत्रूणां हिम्सकेन्द्र त्वं भूरिदा असि । बहुप्रदो भवसि ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०