मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् २०

संहिता

भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र ।
भूरि॒ घेदि॑न्द्र दित्ससि ॥

पदपाठः

भूरि॑ऽदाः । भूरि॑ । दे॒हि॒ । नः॒ । मा । द॒भ्रम् । भूरि॑ । आ । भ॒र॒ ।
भूरि॑ । घ॒ । इत् । इ॒न्द्र॒ । दि॒त्स॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र भूरिदा बहुप्रदस्त्वं भूरि बहु धनं नोऽस्मभ्यं देहि । प्रयच्छ । किन्तु दभ्रमल्पं धनं मा प्रयच्छ । भूरि बहुलं धनमस्मभ्यमा भर । आहर । किञ्च भूरीत् अदभ्रमेव धनं दित्ससि घ । अस्मभ्यं दातुमिच्छसि खलु ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०