मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् २१

संहिता

भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् ।
आ नो॑ भजस्व॒ राध॑सि ॥

पदपाठः

भू॒रि॒ऽदाः । हि । असि॑ । श्रु॒तः । पु॒रु॒ऽत्रा । शू॒र॒ । वृ॒त्र॒ऽह॒न् ।
आ । नः॒ । भ॒ज॒स्व॒ । राध॑सि ॥

सायणभाष्यम्

हे वृत्रहन्वृत्रस्य हिंसक शूर विक्रान्तेन्द्र भूरिदा बहुप्रदस्त्वं पुरुत्रा पुरुषु बहुषु यजमानेषु श्रुतोऽसि हि । विख्यातो भवसि खलु । राधसि धने नोऽस्माना भजस्व । आ समन्ताद्भागिनः कुरु ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०