मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् २२

संहिता

प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् ।
माभ्यां॒ गा अनु॑ शिश्रथः ॥

पदपाठः

प्र । ते॒ । ब॒भ्रू इति॑ । वि॒ऽच॒क्ष॒ण॒ । शंसा॑मि । गो॒ऽस॒नः॒ । न॒पा॒त् ।
मा । आ॒भ्या॒म् । गाः । अनु॑ । शि॒श्र॒थः॒ ॥

सायणभाष्यम्

हे विचक्षण प्राज्ञेन्द्र ते त्वदीयौ बभ्रू बभ्रुवर्णावश्वौ प्र शंसामि । प्रकर्षेण स्त्ॐइ । हे गोसनो गवां सनितर्हे नपात् न पातयितः स्तोतॄनविनाशयितः । किन्तु पालयितरित्यर्थः । हे इन्द्र त्वमाभ्यां त्वदीयाभ्यामश्वाभ्यां गा अनु अस्मदीया गा लक्षीकृत्य मा शिश्रथः । विनष्टा मा कार्षीः । गावोऽश्वदर्शनाद्विश्लिष्यन्ते । तन्मा भूदित्यर्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०