मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् २३

संहिता

क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ।
ब॒भ्रू यामे॑षु शोभेते ॥

पदपाठः

क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के ।
ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥

सायणभाष्यम्

विद्रधे विदृढ्त् व्यूढे नवे नवजाएऽर्भकेऽल्पके द्रुपदे द्रुमाख्यस्थाने स्थिते कनीनकेव कमनीये शालभञ्चिके इव हे इन्द्र बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ यामेषु यज्ञेषु शोभेते । कान्तियुक्तौ भवतः । कनीनके कन्यके । कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति वा कनतेर्वा स्यात्कान्ति कर्मण इत्यादि निरुक्तं ॥ ४-१५ ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०