मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् १

संहिता

प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे ।
ये वात॑जूतास्त॒रणि॑भि॒रेवै॒ः परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥

पदपाठः

प्र । ऋ॒भुऽभ्यः॑ । दू॒तम्ऽइ॑व । वाच॑म् । इ॒ष्ये॒ । उ॒प॒ऽस्तिरे॑ । श्वैत॑रीम् । धे॒नुम् । ई॒ळे॒ ।
ये । वात॑ऽजूताः । त॒रणि॑ऽभिः । एवैः॑ । परि॑ । द्याम् । स॒द्यः । अ॒पसः॑ । ब॒भू॒वुः ॥

सायणभाष्यम्

चतुर्थेऽनुवाके त्रयोदश सूक्तानि । तत्र प्र ऋभुभ्य इत्येकादशर्चं प्रथमं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् । त्य्ह्यादिपरिभाषयेदमादिसूक्तपञ्चकमृभुदेवताकम् । अत्रानुक्रमणिका । प्र ऋभुभ्य एकादशार्भवं वा इति । व्यूढे दशरात्रे चतुर्थेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानीयमिदम् । तथा च सूत्रितम् । प्र ऋभुभ्य प्र शुक्रैत्विति वैश्वदेवम् । आ. ८-८ । इति ॥

तत्र ऋभूणां पूर्वं मनुष्याणामेव सतां तपसा देवत्वप्राप्तिरार्भवं शंसत्यृभवो वै देवेभ्यः । ऐ. ब्रा. ३-३० । इत्यत्र ब्राह्मणे स्पष्टमाम्नाता । केचन ऋभवो नाम सूर्यरश्मय इत्याचक्षते । अहं यजमान ऋभुभ्य उरुभासमानेभ्य एतन्नामकेभ्यो देवेभ्यो वाचं स्तुतिरूपां प्रेष्ये । प्रेरयामि । किमिव । दूतमिव । यथा दूतं स्वकार्यं प्रति प्रेषयन्ति तद्वत् । किञ्च उपस्थिरे सोमोपस्तरणाय श्वैतरीं पयोयुक्तां श्वेततरां वां धेनुमीळे । याचाम्यृभून् । य ऋभवो वातजूत वातसमानगतयोऽषसो जगदुपकारिकर्माणः सन्तस्तरणिभिस्तारकैरेवैर्गमनशीलैरश्वैर्द्यामन्तरिक्षं सद्यस्तदानीमीव परि बभूवुः । परिभवन्ति । सर्वतो व्याप्नुवन्ति । अथ रश्मय एव ऋभव इत्युक्तत्वादादित्यं वा रश्मयः परितो व्याप्नुवन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः