मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् ११

संहिता

इ॒दाह्न॑ः पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः ।
ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्त्सव॑ने दधात ॥

पदपाठः

इ॒दा । अह्नः॑ । पी॒तिम् । उ॒त । वः॒ । मद॑म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य॑ । स॒ख्याय॑ । दे॒वाः ।
ते । नू॒नम् । अ॒स्मे इति॑ । ऋ॒भ॒वः॒ । वसू॑नि । तृ॒तीये॑ । अ॒स्मिन् । सव॑ने । द॒धा॒त॒ ॥

सायणभाष्यम्

इदेदानीं चमसादिनिर्माणानन्तरमह्नः सुत्याहसम्बन्धिनस्तृतीये सवने पीतिं सोमपानमुतापि च मदं तज्जनितं वो युष्माकं धुः । ददुर्देवाः । श्रान्तस्य श्रान्तात्तपोयुक्तादृते सख्याय सखित्वाय न भवन्ति देवाः । यत एते श्रान्ता अतो ददुरित्यर्थः । हे ऋभवस्ते महान्तो यूयं नूनं निश्चयमस्मे अस्मास्वस्मिन् तृतीये सवने वसूनि धनानि दधात । धारयत ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः