मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ११

संहिता

नापा॑भूत॒ न वो॑ऽतीतृषा॒मानि॑ःशस्ता ऋभवो य॒ज्ञे अ॒स्मिन् ।
समिन्द्रे॑ण॒ मद॑थ॒ सं म॒रुद्भि॒ः सं राज॑भी रत्न॒धेया॑य देवाः ॥

पदपाठः

न । अप॑ । अ॒भू॒त॒ । न । वः॒ । अ॒ती॒तृ॒षा॒म॒ । अनिः॑ऽशस्ताः । ऋ॒भ॒वः॒ । य॒ज्ञे । अ॒स्मिन् ।
सम् । इन्द्रे॑ण । मद॑थ । सम् । म॒रुत्ऽभिः॑ । सम् । राज॑ऽभिः । र॒त्न॒ऽधेया॑य । दे॒वाः॒ ॥

सायणभाष्यम्

हे ऋभवो यूयं नापाभूत । नापगच्छत । अपरक्ता न भवत । वयं च वो युष्मान्नातीतृषाम । अत्यन्तं तृषितान्मा करवाम । अतो हे ऋभवो देवा अनिःशस्ता अनिन्दिताः सन्तोऽस्मिज्ञन्य इन्द्रेण सं मदथ । मरुद्भिः सं मदथ । रजिभी राजमानैरन्यैर्देवैः सं मदथ । तृप्ता भवथ । किमर्थम् । रत्नधेयाय रमणीयाय धनादानाय ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः