मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् १

संहिता

उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे ।
क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥

पदपाठः

उ॒तो इति॑ । हि । वा॒म् । दा॒त्रा । सन्ति॑ । पूर्वा॑ । या । पू॒रुऽभ्यः॑ । त्र॒सद॑स्युः । नि॒ऽतो॒शे ।
क्षे॒त्र॒ऽसाम् । द॒द॒थुः॒ । उ॒र्व॒रा॒ऽसाम् । घ॒नम् । दस्यु॑ऽभ्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् ॥

सायणभाष्यम्

उतो हि वामिति दशर्चं षष्ठं सूक्तम् । वामदेव ऋषिः । त्रिष्टुप् छन्दः । दधिक्रा देवता । आद्या द्यावापृथिव्या । अत्रानुक्रमणिका । उतो हि दश दाधिक्रं हि द्यावापृथिव्याद्येति । विनियोगो लैङ्गिकः ॥

उतो इति पूरणः । अस्या द्यावापृथिव्यत्वादत्र तद्वाचकशब्दाभावेऽपि ते एव सम्बोद्धव्ये । हे द्यावापृथिव्यौ वां युवाभ्यां सकाशाद्दात्रा दानकर्त्रा पौरुकुत्सेन त्रसदस्युना लब्धानि पूर्वा पूर्वाणि पुरातनानि पूरकाणि वा धनानि सन्ति । या यानि धनानि पुरुभ्योर्थिभ्यो मनुष्येभ्यस्त्रसदस्यू राजा नितोशे । न्यतोशत । दत्तवान् । क्षेत्रसाम् । क्षेत्राणि सर्वा भूमीः सनोतीति क्षेत्रसा अश्वः । तं ददथुः । तथोर्वरासाम् । उर्वरा सर्वसस्याढ्या भूः । तां सनोतीत्युर्वरासाः पुत्रः । तं ददथुः । घनं हननार्हमायुधं दस्युभ्यो दस्यूनां वधार्थं च ददथुः । कीदृशमायुधम् । अभिभूतिमभिभवितारमुग्रमुद्गूर्णबलम् । यद्वा । उत्तरार्धमेकं वाक्यम् । दातव्यानि धनान्युक्तलक्षनं पुत्रं च ददथुः । दत्तवत्यौ स्थः । तानि मह्यमपि ददाथामित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११