मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् २

संहिता

उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् ।
ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥

पदपाठः

उ॒त । वा॒जिन॑म् । पु॒रु॒निः॒ऽसिध्वा॑नम् । द॒धि॒ऽक्राम् । ऊं॒ इति॑ । द॒द॒थुः॒ । वि॒श्वऽकृ॑ष्टिम् ।
ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒तऽप्सु॑म् । आ॒शुम् । च॒र्कृत्य॑म् । अ॒र्यः । नृ॒ऽपति॑म् । न । शूर॑म् ॥

सायणभाष्यम्

उतापि च वाजिनं गमनवन्तम् । अश्वरूपं वा देवं अग्नेरश्वरूपस्यैव दधिक्राख्यत्वात् । अग्नेस्तद्रूपत्वं ब्राह्मणे समाम्नातम् । तानग्निरश्वो भूत्वाभ्यद्रवदिति । पुरुनिष्षिध्वानं पुरूणां बहूनां शत्रूणां निष्षेद्धारं दधिक्राम् । दधदन्यं धारयन् क्रामतीति दधिक्राः । तमेतन्नामकं देवम् । उः उफ्रणः । विश्वकृष्तिम् । विश्वाः कृष्टयो रक्षणीयाः सेवका वा मनुष्या यस्य तम् । ऋजिप्यम् । ऋज्वाप्नोति गच्छतीत्यृजिप्यः । तं श्येनं शंसनीयगमनं प्रुषितप्सुं दीप्तरूपमाशुं व्याप्तं शीघ्रगमनं वार्योऽरेश्चर्कृत्यं कर्तनशीलं शूरं नृपतिं न राजानमिव स्थितं देवं द्यावापृथिव्यौ ददथुः । धारयतः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११