मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् ३

संहिता

यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्व॑ः पू॒रुर्मद॑ति॒ हर्ष॑माणः ।
प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥

पदपाठः

यम् । सी॒म् । अनु॑ । प्र॒वता॑ऽइव । द्रव॑न्तम् । विश्वः॑ । पू॒रुः । मद॑ति । हर्ष॑माणः ।
प॒ट्ऽभिः । गृध्य॑न्तम् । मे॒ध॒ऽयुम् । न । शूर॑म् । र॒थ॒ऽतुर॑म् । वात॑म्ऽइव । ध्रज॑न्तम् ॥

सायणभाष्यम्

यं दधिक्रां विश्वः पूरुः सर्वोऽपि मनुष्यो हर्षमाणो हृष्यन् हर्षयन्वा मदति । स्तौति । तं देवं द्यावापृथिव्यौ ददथुरिति सम्बन्धः । स द्वो विशेष्यते । सीं सर्वतः प्रवता प्रवणवता निम्नेन मार्गेणोदकमिवानुक्रमेण द्रवन्तं गच्छन्तं षड्भिः पादैर्गृध्यन्तमभिका~क्षन्तं दिशो लङ्घितुम् । तत्र दृष्टान्तः । मेधयुं न शूरम् । सङ्ग्रामेच्छुं शूरमिव । यद्वा । यज्ञक्रमेणेच्छुमध्वर्व्यादिकमिव । रथतुरं रथेन गच्छान्तं वातमिव ध्रजन्तं शीघ्रगं वायुमिव । उक्त विशेषविशिष्टानुदकशूरवायून्यथा सर्वो जनः स्तौति तथा यं देवं स्तौति तं ददथुरित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११