मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् ४

संहिता

यः स्मा॑रुन्धा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् ।
आ॒विरृ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥

पदपाठः

यः । स्म॒ । आ॒ऽरु॒न्धा॒नः । गध्या॑ । स॒मत्ऽसु॑ । सनु॑ऽतरः । चर॑ति । गोषु॑ । गच्छ॑न् ।
आ॒विःऽऋ॑जीकः । वि॒दथा॑ । नि॒ऽचिक्य॑त् । ति॒रः । अ॒र॒तिम् । परि॑ । आपः॑ । आ॒योः ॥

सायणभाष्यम्

यः स्म यः खलु देवो गध्या गध्यानि । गध्यतिर्मिश्रीभावकर्मेति निरुक्तम् । ५-१५ । मिश्रयितव्यानि फलानि समत्सु सङ्ग्रामेष्वारुन्धानः सर्वतो निरोधयन् सनुतरः सम्भक्तृतरो गोषु सर्वासु दिक्षु गोषु वा निमित्तभूतेषु गच्छन्नाविऋजीक आविर्भूतसाधन आविर्भूतमुष्को वा विदथा विदथानि ज्ञातव्यानि निचिक्यत् पश्यतिकर्मैतत् । जानन् अरतिमरमणं कुःखमभिगन्तारमरिं वा परि सर्वतस्तिरश्चरति । तिरस्करोति । कस्यारतिमिति । आपो व्याप्तस्य सोत्तुरायोर्मनुष्यस्य यजमानस्य ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११