मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् ५

संहिता

उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु ।
नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥

पदपाठः

उ॒त । स्म॒ । ए॒न॒म् । व॒स्त्र॒ऽमथि॑म् । न । ता॒युम् । अनु॑ । क्रो॒श॒न्ति॒ । क्षि॒तयः॑ । भरे॑षु ।
नी॒चा । अय॑मानम् । जसु॑रिम् । न । श्ये॒नम् । श्रवः॑ । च॒ । अच्छ॑ । प॒शु॒ऽमत् । च॒ । यू॒थम् ॥

सायणभाष्यम्

उत स्म अपि खल्वेनं दधिक्रां भरेषु सङ्रामेषु वस्त्रमथिं तायुं न वस्त्रमाथिनं तस्करमिव । तं दृष्ट्वा क्षितयो मनुष्या यथानु क्रोशन्ति तद्वद्वैरिणोऽनुक्रोशन्ति । किञ्च नीचा नीचैरयमानं गच्छन्तं जसुरिं न श्येनं क्षुधितं श्येनं पक्षिणमिव । तं यथा दृष्ट्वा पक्षिणः पलायन्ते तद्वत् । श्रवोऽन्नं कीर्तिं वा पशुमद्यूथं चाच्छाभिलक्ष्य गच्छन्तमेनमनुक्रोशन्तीति सम्बन्धः । अपि स्मैनं वस्त्रमथिमिव वस्त्रमाथिनमित्यादिनिरुक्तमत्रानुसन्धेयम् ॥ नि. ४-२४ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११