मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् ६

संहिता

उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नाम् ।
स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥

पदपाठः

उ॒त । स्म॒ । आ॒सु॒ । प्र॒थ॒मः । स॒रि॒ष्यन् । नि । वे॒वे॒ति॒ । श्रेणि॑ऽभिः । रथा॑नाम् ।
स्रज॑म् । कृ॒ण्वा॒नः । जन्यः॑ । न । शुभ्वा॑ । रे॒णुम् । रेरि॑हत् । कि॒रण॑म् । द॒द॒श्वान् ॥

सायणभाष्यम्

उत स्म अपि च खल्वास्वसुरसेनासु सरिष्यन् सर्तुमिच्छन् प्रथमः प्रतम उत्कृष्टतमो मुख्यः सन् रथानां श्रेणिभी राजिभिर्युक्तः सन् नि वेवेति । नितरां गच्छति । इतस्ततो धावति । क इवेति । उच्यते । स्रजम् । सृज्यत उत्पाद्यते रूपनयेति स्रगलंकृतिः । तां कृण्वन्यो जन्यो न जनेभ्यो हितोऽश्व इव सुभ्वा । सुष्ठु भवतिति सुभ्वा शोभनमानः । किरणमास्यगतं खलीनं ददश्वान् दशन् रेणुं स्वपादघातजनितं रेरिहत् । भृशं लेढि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२