मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् ७

संहिता

उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ॥

पदपाठः

उ॒त । स्यः । वा॒जी । सहु॑रिः । ऋ॒तऽवा॑ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।
तुर॑म् । य॒तीषु॑ । तु॒रय॑न् । ऋ॒जि॒प्यः । अधि॑ । भ्रु॒वोः । कि॒र॒ते॒ । रे॒णुम् । ऋ॒ञ्जन् ॥

सायणभाष्यम्

उत अपि च स्य स उक्तल्क्षणो वाजी वेजनवान् गमनवान् समर्ये समरणे सहुरिः सहनशीलः शत्रूणामृतावान्नवांस्तन्वा स्वावयवेन खुरादिना स्वतनुं शुश्रूषमाणस्तुरं यतीषु त्वरगामिनीष्वसुरसेनासु तुरयन् त्वरयन् ऋजिप्य ऋजुगामी रेणुं धूलिमृञ्जन्प्रसाधयंस्तमेव रेणुं भ्रुवोरध्युपरि किरते । विक्षिपति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२