मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् ९

संहिता

उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः ।
उ॒तैन॑माहुः समि॒थे वि॒यन्त॒ः परा॑ दधि॒क्रा अ॑सरत्स॒हस्रै॑ः ॥

पदपाठः

उ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः॑ । जू॒तिम् । कृ॒ष्टि॒ऽप्रः । अ॒भिऽभू॑तिम् । आ॒शोः ।
उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्ऽइ॒थे । वि॒ऽयन्तः॑ । परा॑ । द॒धि॒ऽक्राः । अ॒स॒र॒त् । स॒हस्रैः॑ ॥

सायणभाष्यम्

उत स्म अपि च खल्वस्य दधिक्राव्णोऽभिभूतिमभिभवित्रीं जूतिं पराभिभूतिं चेत्युभयं वा जनाः पनयन्ति । स्तुवन्ति । कीदृशस्यास्य । कृष्तिप्रः । कृष्टयो मनुष्याः । तेषां पूरकस्याशोर्व्याप्तस्य वेगवतो वा । उतापि चैनं समिथे सङ्र्ग्रामे वियन्तो विविधं गच्छान्तो जना अयं दधिक्रा देवः सहस्रैरनुचरैः परिवृतः परासरदिति अस्मान्विहायान्यान् हन्तुं गत इत्याहुः । यद्वा । एनमेव माहुः वियन्तः शत्रवः परा । भवन्तीति शेषः । दधिक्राः सहस्रैरसरत् । तच्छतीति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२