मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३८, ऋक् १०

संहिता

आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान ।
स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥

पदपाठः

आ । द॒धि॒ऽक्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒ता॒न॒ ।
स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । वा॒जी । अर्वा॑ । पृ॒णक्तु॑ । मध्वा॑ । सम् । इ॒मा । वचां॑सि ॥

सायणभाष्यम्

पवित्रेष्टावा दधिक्रा इति दधिक्राव्णो याज्या । तथा च सूत्रितम् । दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः । आ. २-१२ ॥ इति ॥

यो दधिक्रा देवः शवसा बलेन पञ्च कृष्टीः पञ्च जनान् देवमनुष्यासुर रक्षः पितृसंज्ञकान्निषादपञ्चमान् चतुरो वर्णान्वा सूर्यो ज्योतिषा तेजसा यथा जगदावृणोति तद्वदप उदकान्या ततान । आतनोति । सहस्रसाः शतसाः शतानां सहस्राणां च दाता वाजी वेजनवानर्वारनकुशलः स देवो मध्वा मधुना मधुरेण फलेनेमेमान्युक्तानि स्तुतिवाचांसि संपृणक्तु । संयोजयतु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२