मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३९, ऋक् २

संहिता

म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्ण॑ः पुरु॒वार॑स्य॒ वृष्ण॑ः ।
यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिम् ॥

पदपाठः

म॒हः । च॒र्क॒र्मि॒ । अर्व॑तः । क्र॒तु॒ऽप्राः । द॒धि॒ऽक्राव्णः॑ । पु॒रु॒ऽवार॑स्य । वृष्णः॑ ।
यम् । पू॒रुऽभ्यः॑ । दी॒दि॒ऽवांस॑म् । न । अ॒ग्निम् । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । ततु॑रिम् ॥

सायणभाष्यम्

क्रतुप्राः कर्मणां पूरकोऽहं महो महतोऽर्वतोऽरणवतः पुरुवारस्य बहुभिर्वरणीयस्य वृष्णो वर्षकस्य दधिक्राव्णः स्तुतिं चर्कर्मि । अत्यर्थं करोमि । हे मित्रावरुना मित्रावरुणौ युवां ततुरिं तारकं यं दीदिवांसं नाग्निं दीप्यमानमग्निमिव स्थितं पुरुभ्यो मनुष्येभ्यस्तेषामुपकाराय ददथुः । धारयथः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३