मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३९, ऋक् ३

संहिता

यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ ।
अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषा॑ः ॥

पदपाठः

यः । अश्व॑स्य । द॒धि॒ऽक्राव्णः॑ । अका॑रीत् । सम्ऽइ॑द्धे । अ॒ग्नौ । उ॒षसः॑ । विऽउ॑ष्टौ ।
अना॑गसम् । तम् । अदि॑तिः । कृ॒णो॒तु॒ । सः । मि॒त्रेण॑ । वरु॑णेन । स॒ऽजोषाः॑ ॥

सायणभाष्यम्

यो यजमानोऽश्वस्याश्वसूपस्य व्याप्तस्य वा दधिक्राव्णः स्तुतिमुषसो व्युष्टौ प्रभाते सत्यग्नौ समिद्धे सत्यकारीत् । अकार्षीत् । मित्रेण वरुणेन चाहोरात्राभिमानिदेवाभ्यां सजोषाः समानप्रीतिरदितिरखण्डनीयो दधिक्रास्तम् यजमानमनागसं कृणोतु । करोतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३