मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३९, ऋक् ४

संहिता

द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रम् ।
स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इन्द्रं॒ वज्र॑बाहुम् ॥

पदपाठः

द॒धि॒ऽक्राव्णः॑ । इ॒षः । ऊ॒र्जः । म॒हः । यत् । अम॑न्महि । म॒रुता॑म् । नाम॑ । भ॒द्रम् ।
स्व॒स्तये॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । हवा॑महे । इन्द्र॑म् । वज्र॑ऽबाहुम् ॥

सायणभाष्यम्

इषोऽन्नसाधकस्योर्जो बलसाधकस्य महो महतो दधिक्राव्णो देवस्य मरुतां स्तोतॄणां स्वभूतं भद्रं कल्याणं नाम नामरूपमस्ति यत्तदमन्महि । स्तुमः । किञ्चात्र निपातभाजो वरुणादींश्च स्वस्तये क्षेमाय हवामहे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३