मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३९, ऋक् ५

संहिता

इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑ः ।
द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्व॑म् ॥

पदपाठः

इन्द्र॑म्ऽइव । इत् । उ॒भये॑ । वि । ह्व॒य॒न्ते॒ । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।
द॒धि॒ऽक्राम् । ऊं॒ इति॑ । सूद॑नम् । मर्त्या॑य । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । नः॒ । अश्व॑म् ॥

सायणभाष्यम्

इन्द्रमिवैनं दधिक्रामुदीराणा युद्धायोद्योग्यं कुर्वन्तो यज्ञमुपप्रयन्तो यज्ञमुपक्रम्य प्रवर्तमानाश्चोभये वि ह्वयन्ते । आह्वयन्ति । यं मर्त्याय मर्त्यस्य सूदनं प्रेरकमश्वमश्वरूपं दधिक्रां देवं हे मित्रा वरुणा नोऽस्माकमर्थाय ददथुः । धारयथः । तं विह्वयन्त्ते । उभय इत्यत्रस्तोतृशंसितृभेदेन वोभयविधत्वमवगन्तव्यं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३