मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४०, ऋक् १

संहिता

द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयन्तु ।
अ॒पाम॒ग्नेरु॒षस॒ः सूर्य॑स्य॒ बृह॒स्पते॑राङ्गिर॒सस्य॑ जि॒ष्णोः ॥

पदपाठः

द॒धि॒ऽक्राव्णः॑ । इत् । ऊं॒ इति॑ । नु । च॒र्कि॒रा॒म॒ । विश्वा॑ । इत् । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ ।
अ॒पाम् । अ॒ग्नेः । उ॒षसः॑ । सूर्य॑स्य । बृह॒स्पतेः॑ । आ॒ङ्गि॒र॒सस्य॑ । जि॒ष्णोः ॥

सायणभाष्यम्

दधिक्राव्ण इदिति पञ्चर्चमष्टमं सूक्तं वामदेवस्यार्षं दाधिक्रम् । आद्यात्रिष्टुप् शिष्टा जगत्यः । हंसः शुचिषदित्येषा सूर्यदेवताका । तथा चानुक्रमणिका । दधिक्राव्णः पञ्च चतस्रोऽन्त्या जगत्योऽन्त्या सौरीति । सूक्तविनियोगो लैङ्गिकः ॥

दधिक्राव्ण इदु एतन्नामकस्य देवस्यैव स्तुतिं नु क्षिप्रं च र्किराम । भृशम् करवाम । मां दिश्वा इदुषसः सर्वा अपि ताः सूदयन्तु । कर्मसु प्रेरयन्तु । अहमप्यबादिदेवतानां स्तुतिं करवानीति शेषः । तासामपि निवातभाक्त्वात् स्तुतिरविरुद्धा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४