मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४०, ऋक् ३

संहिता

उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण॑ः स॒होर्जा तरि॑त्रतः ॥

पदपाठः

उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ ।
श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥

सायणभाष्यम्

उतस्म अपि च खलु द्रवतो गच्छतस्तुरण्यतस्त्वरमाणस्य प्रगर्धिनः प्रकर्षेणाभिकाङ्क्षतोऽस्य देवस्य गतिं वेर्गन्तुः पक्षिणः पर्नं न गमनं पत्रं वानुसृत्य यथा वान्त्यन्ये पक्षिणस्तद्वदनु वाति सर्वो वेगवान् जनः । सर्वेषामपि शीघ्रगामीत्यर्थः । किञ्च ध्रजतो गच्छतस्तरित्रतस्तारयतोऽन्यान् । अन्तर्भावितण्यर्थोयम् । श्येनस्येवांकसं पादाधारमुरः प्रदेशं वा परि परित ऊर्जा बलेन निमित्तेनान्नार्थं वा सहैकीभूय । सङ्घेन गच्छन्तीति शेषः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४