मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४०, ऋक् ४

संहिता

उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामङ्कां॒स्यन्वा॒पनी॑फणत् ॥

पदपाठः

उ॒त । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया॑म् । ब॒द्धः । अ॒पि॒ऽक॒क्षे । आ॒सनि॑ ।
क्रतु॑म् । द॒धि॒ऽक्राः । अनु॑ । स॒म्ऽतवी॑त्वत् । प॒थाम् । अङ्कां॑सि । अनु॑ । आ॒ऽपनी॑फणत् ॥

सायणभाष्यम्

उतापि च स्य स वाजी वेजनवानश्वरूपो देवो ग्रीवायां गरणसाधनायां कण्ठे बद्धोऽपिकक्षे कक्षप्रदेश आसन्यास्ये च बद्धः । बद्धपल्यङ्कस्योक्तेषु स्थानेषु पाशबन्धाः सम्भवन्ति । एवं बद्धः सन् क्षिपणिं क्षेपणमनु तुरण्यति । त्वरयति गन्तुम् । किञ्चायं दधिक्रा देवः क्रतुं कर्म प्रज्ञां वान्वनुसृत्य सन्तवीत्वत् प्रवृद्धबलवान् सन् पथां मार्गाणामङ्कांसि किटिलान्यनुस्रुत्यापनीफणत् । सर्वतो भृशं गच्छति ॥ फणतेर्गत्यर्थस्य यङ् लिकीदं रूपम् । अपि स वाजी वेजनवानित्यादिनिरुक्तमनुसन्धेयम् । नि. २-२८ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४