मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् १

संहिता

इन्द्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑ ।
यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ॥

पदपाठः

इन्द्रा॑ । कः । वा॒म् । व॒रु॒णा॒ । सु॒म्नम् । आ॒प॒ । स्तोमः॑ । ह॒विष्मा॑न् । अ॒मृतः॑ । न । होता॑ ।
यः । वा॒म् । हृ॒दि । क्रतु॑ऽमान् । अ॒स्मत् । उ॒क्तः । प॒स्पर्श॑त् । इ॒न्द्रा॒व॒रु॒णा॒ । नम॑स्वान् ॥

सायणभाष्यम्

इन्द्रा को वामित्येकादशर्चं नवमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रावरुणम् । अत्रानुक्रमणिका । इन्द्रा को वामेकादशैन्द्रावरुणं त्विति । आभिप्लविकेषूक्थेषु तृतीयसवने मैत्रावरुनशस्त्रेषु स्तोमवृद्धावावापार्थमेतदादिसूक्तद्वयम् । इन्द्रा को वामिति सूक्ते । आ. ७-९ । इति सूत्रितत्वात् ॥

हे इन्द्रा वरुणा हे इन्द्रावरुणौ । परस्परापेक्षया द्विवचनम् । वां युवयोः सुम्नं सुखं कः स्तोमे हविष्मान् हविर्भिरुपेतः सोमाज्यादिप्रदेयद्रव्योपेतं कतमत् स्तोत्रं सुम्नमाप । फलकत्वेन प्राप्नुयाइद्त्यर्थः । यद्वा । हविष्मानित्येतदुत्तरत्र योज्यम् । हविश्मान् हविर्युक्तोऽमृतोऽमरण लक्षनः स्वर्गसाधनो होताग्निरिव । स यथा तथा यः स्तोमो हे इन्द्रावरुणौ वां युवयोर्हृदि हृदये क्रतुमान्प्रज्ञोपेतोऽस्मदस्मत्सकाशादुक्त उदितो नमस्वान्हदिष्मान्नमस्कारोपेतो वा पस्पर्शत् । स्पृशेत् । हृदयङ्गमो भवेत् । स क इति स्तोमप्रशंसा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५