मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् २

संहिता

इन्द्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्त॑ः स॒ख्याय॒ प्रय॑स्वान् ।
स ह॑न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भि॒ः स प्र शृ॑ण्वे ॥

पदपाठः

इन्द्रा॑ । ह॒ । यः । वरु॑णा । च॒क्रे । आ॒पी इति॑ । दे॒वौ । मर्तः॑ । स॒ख्याय॑ । प्रय॑स्वान् ।
सः । ह॒न्ति॒ । वृ॒त्रा । स॒म्ऽइ॒थेषु॑ । शत्रू॑न् । अवः॑ऽभिः । वा॒ । म॒हत्ऽभिः॑ । सः । प्र । शृ॒ण्वे॒ ॥

सायणभाष्यम्

इन्द्रा वरुणेन्दावरुणौ देवौ । हशब्दः पूरणः प्रसिद्धौ वा । उओ मर्तो वरणधर्मा प्रयस्वान् हविर्लक्षणान्नवान् सन् सख्याय सखित्वायापी बन्धू चक्ते । करोति । समर्तो वृत्रा आवरकाणि पापानि हन्ति । तथा समिथेषु सङ्ग्रामेषु शत्रून् हन्ति । वाशब्दश्चार्थे । महद्भिरवोभी रक्शणैः स नरः प्र शृण्वे । प्रकृष्टं श्रूयते । विख्यातो भवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५