मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् ३

संहिता

इन्द्रा॑ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्य॑ः शशमा॒नेभ्य॒स्ता ।
यदी॒ सखा॑या स॒ख्याय॒ सोमै॑ः सु॒तेभि॑ः सुप्र॒यसा॑ मा॒दयै॑ते ॥

पदपाठः

इन्द्रा॑ । ह॒ । रत्न॑म् । वरु॑णा । धेष्ठा॑ । इ॒त्था । नृऽभ्यः॑ । श॒श॒मा॒नेभ्यः॑ । ता ।
यदि॑ । सखा॑या । स॒ख्याय॑ । सोमैः॑ । सु॒तेभिः॑ । सु॒ऽप्र॒यसा॑ । मा॒दयै॑ते॒ इति॑ ॥

सायणभाष्यम्

इन्द्रावरुणौ ता । हेति प्रसिद्धौ । तौ खलु देवावित्थेत्थं नृभ्यो मनुष्येभ्यः शशमानेभ्यः शंसमानेभ्यः स्तोतृभ्योऽस्मभ्यं रत्नं रमणीयम् धनं धेष्ठा दातृतमौ । भवत इति शेशः । यदि सखाया परस्परं यजमानस्य वा सखिभूतौ सख्याय सखिकर्मणे सखित्वाय सुतेभिरभिषुतैः सोमैः सुप्रयासा शोभनसोमान्नवन्तौ मादयैते । माद्येताम् । तर्हि रत्नानां दातारौ भवतः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५