इन्द्रा॑ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा॑ वृष॒भेव॑ धे॒नोः ।
सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । भू॒तम् । अ॒स्याः । धि॒यः । प्रे॒तारा॑ । वृ॒ष॒भाऽइ॑व । धे॒नोः ।
सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥
हे इन्द्रा वरुणा इन्द्रावरुणौ युवं युवामस्या धियः स्तुत्याः प्रेताराप्रीणयितारौ भूतम् । भवतम् । वृषभा सेक्तारौ वृषभौ धेनोरिव । सा स्तुतिरूपाधेनुर्नोऽस्माकं दुहीयत् । दुह्येत् । कामान् पूरयेत् । वयसा तृणादिघासेन निमित्तेन गत्वी गत्वा पयसा सहस्रधारा मही महती गौरिव ॥ ५ ॥