मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् ६

संहिता

तो॒के हि॒ते तन॑य उ॒र्वरा॑सु॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
इन्द्रा॑ नो॒ अत्र॒ वरु॑णा स्याता॒मवो॑भिर्द॒स्मा परि॑तक्म्यायाम् ॥

पदपाठः

तो॒के । हि॒ते । तन॑ये । उ॒र्वरा॑सु । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।
इन्द्रा॑ । नः॒ । अत्र॑ । वरु॑णा । स्या॒ता॒म् । अवः॑ऽभिः । द॒स्मा । परि॑ऽतक्म्यायाम् ॥

सायणभाष्यम्

इन्द्रावरुणौ देवौ नो हिते तोके पुत्रे तनये तत्पुत्रे चोर्वरासु सस्याढ्यासु भूमिषु निमित्तभूतासु सूरः प्रेरकस्य सूर्यस्य दृशीके चिरकालदर्शनाय । चिरजीवनायेत्यर्थः । तथा वृषणः सेक्तुर्मम पौंस्ये च पुंस्त्वाय च पुनरपि प्रजननसामर्थ्याय च दस्मा शत्रूणां हिंसकौ सन्तौ नोऽस्माकमवोभीरक्षणैः सह परितक्म्यायां परितकने निमित्तभुते सति । यद्वा रात्रिनामैतत् । रात्रौ हिंसकानां वधाय स्याताम् । भवेताम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६