मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् ७

संहिता

यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू॑ती ग॒विषः॑ स्वापी ।
वृ॒णी॒महे॑ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे॑व श॒म्भू ॥

पदपाठः

यु॒वाम् । इत् । हि । अव॑से । पू॒र्व्याय॑ । परि॑ । प्रभू॑ती॒ इति॒ प्रऽभू॑ती । गो॒ऽइषः॑ । स्वा॒पी॒ इति॑ सुऽआपी ।
वृ॒णी॒महे॑ । स॒ख्याय॑ । प्रि॒याय॑ । शूरा॑ । मंहि॑ष्ठा । पि॒तरा॑ऽइव । श॒म्भू इति॑ श॒म्ऽभू ॥

सायणभाष्यम्

हे इन्द्रावरुणौ गविषो गा इच्छन्तो वयं युवामित् । हीति पादपूरणः । युवामेव पूर्व्याय पुरातनाय युवभ्यां कृतायावसे रक्षणाय । वृणीमह इति सम्बन्धः । प्रभूती प्रभवन्तौ स्वापी शोभनबन्धुभूतौ । आपिरिति बन्धुः । यद्वा । सुष्ठु व्यापनशीलौ शूरा विक्रान्तौ मंहिष्थातिशयेन पूज्यौ युवां सख्याय समानख्यानाय प्रियाय च परि वृणीमहे । परितः प्रार्थयामहे । शम्भू सुखस्य भावयितारौ पितरेव पितरौ पुत्राय तद्वत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६