मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् ८

संहिता

ता वां॒ धियोऽव॑से वाज॒यन्ती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू ।
श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥

पदपाठः

ताः । वा॒म् । धियः॑ । अव॑से । वा॒ज॒ऽयन्तीः॑ । आ॒जिम् । न । ज॒ग्मुः॒ । यु॒व॒ऽयूः । सु॒दा॒नू॒ इति॑ सुऽदानू ।
श्रि॒ये । न । गावः॑ । उप॑ । सोम॑म् । अ॒स्थुः॒ । इन्द्र॑म् । गिरः॑ । वरु॑णम् । मे॒ । म॒नी॒षाः ॥

सायणभाष्यम्

सुदानू शोभनफलदातारौ हे देवौ वां युवां वाजयन्ती रत्नमिच्छन्त्यो धियः स्तुतयो जग्मुः । गच्छन्ति । युवयूर्युवां कामयमानाः पदातय अवसे रक्षणाय आजिं न सङ्ग्राममिव । किञ्च श्रिये दध्यादिश्रयणाय गावः सोमं न सोममिवेन्द्रं वरुनं च मे मदीया मनीषा मनस ईश्वरा गिरः स्तुतय उपास्थुः । तिष्ठन्ति । प्रीणयन्तीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६