मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् ९

संहिता

इ॒मा इन्द्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा॑नाः ।
उपे॑मस्थुर्जो॒ष्टार॑ इव॒ वस्वो॑ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ॥

पदपाठः

इ॒माः । इन्द्र॑म् । वरु॑णम् । मे॒ । म॒नी॒षाः । अग्म॑न् । उप॑ । द्रवि॑णम् । इ॒च्छमा॑नाः ।
उप॑ । ई॒म् । अ॒स्थुः॒ । जो॒ष्टारः॑ऽइव । वस्वः॑ । र॒घ्वीःऽइ॑व । श्रव॑सः । भिक्ष॑माणाः ॥

सायणभाष्यम्

इन्द्रं वरुनं च मे मम मनीषाः स्तुतयो द्रविणमिच्छमानाः सत्य उपाग्मन् । उपगच्छन्ति । जोष्टारः सेवका वस्वो धनस्य लाभाय धनिकं स्वामिनमिव । रघ्वीरिव लघ्व्य इव शीघ्रगामिन्य इव श्रवसोऽन्नस्यान्नं भिक्षमाना एनमिन्द्रं वरुनं चोपास्थुः । उपतिष्थन्ते ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६