मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् ११

संहिता

आ नो॑ बृहन्ता बृह॒तीभि॑रू॒ती इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ ।
यद्दि॒द्यव॒ः पृत॑नासु प्र॒क्रीळा॒न्तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥

पदपाठः

आ । नः॒ । बृ॒ह॒न्ता॒ । बृ॒ह॒तीभिः॑ । ऊ॒ती । इन्द्र॑ । या॒तम् । व॒रु॒ण॒ । वाज॑ऽसातौ ।
यत् । दि॒द्यवः॑ । पृत॑नासु । प्र॒ऽक्रीळा॑न् । तस्य॑ । वा॒म् । स्या॒म॒ । स॒नि॒तारः॑ । आ॒जेः ॥

सायणभाष्यम्

हे बृहन्ता महान्तौ हे इन्द्र हे वरुण बृहतीभिर्महतीभिरूती ऊतिभी रक्षाभिः सहा यातम् । आगच्छतम् । वाजसातौ सङ्ग्रामेऽन्नलाभनिमित्तभुते वा यद्यस्मिन्नाजौ सङ्ग्रामे पृतनासु सेनासु दिद्यवः । आयुधनामैतत् । आयुधानि शत्रुसंबन्धीनि प्रक्रीळान् । प्रक्रीडन्ते । तस्य तादृशस्याजेः सनितारः सम्भक्तारह् स्याम । भवेम । वां युवयोरनुग्रहात् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६