मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४२, ऋक् ७

संहिता

वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः ।
त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥

पदपाठः

वि॒दुः । ते॒ । विश्वा॑ । भुव॑नानि । तस्य॑ । ता । प्र । ब्र॒वी॒षि॒ । वरु॑णाय । वे॒धः॒ ।
त्वम् । वृ॒त्राणि॑ । शृ॒ण्वि॒षे॒ । ज॒घ॒न्वान् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥

सायणभाष्यम्

इतः परमिन्द्रावरुनयोः स्तुतिः । हे वरुण तस्य ते । कर्मणि षष्ठी । तं त्वां विश्वा सर्वाणि ता तानि भुवन्ननि भूतजातानि विदुः । जानन्ति । हे वेधः । स्तोतृनामैतत् । हे स्तोतर्वरुणाय प्र ब्रवीषि । वरुणं स्तौषि । हे इन्द्र त्वं वृत्राणि वैरिणो जघन्वान् हतवानिति शृण्विषे । श्रूयवे । किञ्च हे इन्द्र त्वं वृतानाच्छन्नान् सिन्धून् स्यन्दनस्वभादानप्सङ्घानरिणाः । आगमयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८