मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४२, ऋक् ९

संहिता

पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।
अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वम् ॥

पदपाठः

पु॒रु॒ऽकुत्सा॑नी । हि । वा॒म् । अदा॑शत् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।
अथ॑ । राजा॑नम् । त्र॒सद॑स्युम् । अ॒स्याः॒ । वृ॒त्र॒ऽहन॑म् । द॒द॒थुः॒ । अ॒र्ध॒ऽदे॒वम् ॥

सायणभाष्यम्

हे इन्द्रावरुणौ पुरुकुत्साणि पुरुकुत्सस्य पत्नी ऋषिप्रेरिता वां युवामदाशद्धि । आप्रीणयत् खलु । हव्येभिर्हविर्भिर्नमोभिः स्तुतिभिश्च । अथ राजानं त्रसदस्युं वृत्रहणमर्धदेवमुक्तलक्शणं पुत्रमस्या अस्यै पुरुकुत्सान्ये ददथुः । दत्तवन्ताविति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८