मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४३, ऋक् १

संहिता

क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते ।
कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्याम् ॥

पदपाठः

कः । ऊं॒ इति॑ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया॑नाम् । व॒न्दारु॑ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ ।
कस्य॑ । इ॒माम् । दे॒वीम् । अ॒मृते॑षु । प्रेष्ठा॑म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒ऽस्तु॒तिम् । सु॒ऽह॒व्याम् ॥

सायणभाष्यम्

क उ श्रवदिति सप्तर्चमेकादशं सूक्तम् । सुहोत्रपुत्रौ पुरुमीह्ळाजमीह्ळावृषी । त्रिष्तुप् छन्दः । अश्विनौ देवता । अत्रानुक्रमणिका । क उ श्रवत्सप्त पुरुमीह्ळाजमीह्ळौ सौहोत्रौ त्वाश्विनं हि । प्रातरनुवाकश्विनशस्त्रयोराश्विने क्रतौ त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते । धेनुः प्रत्नस्य क उ श्रवत् । आ. ४-१५ । इति सूत्रितत्वात् ॥

यज्ञियानां यज्ञार्हानां देवानां मध्ये क उ देवः श्रवत् । शृणुयात्स्तुतिम् । कतमो देवो वन्दारु वन्दनशीलं स्तोत्रम् । कतमो देवो जुषाते । सेवते । कस्य हृदीमां प्रेष्थां प्रियतरां देवीं द्योतमानां सुहव्यां शोभनान्नोपेतां शोभनैर्हविर्भिर्युक्तां वा सुष्टुतिममृतेषु मध्ये श्रेषाम । श्लेषयेम श्रावयेम वा । अश्विनावन्तरेण स्तुतेः को देवः स्वामी भवेदिति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९