मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४३, ऋक् २

संहिता

को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शम्भ॑विष्ठः ।
रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥

पदपाठः

कः । मृ॒ळा॒ति॒ । क॒त॒मः । आऽग॑मिष्ठः । दे॒वाना॑म् । ऊं॒ इति॑ । क॒त॒मः । शम्ऽभ॑विष्ठः ।
रथ॑म् । कम् । आ॒हुः॒ । द्र॒वत्ऽअ॑श्वम् । आ॒शुम् । यम् । सूर्य॑स्य । दु॒हि॒ता । अवृ॑णीत ॥

सायणभाष्यम्

को मृळाति । को देवो मृडाति । सुखयेदस्मान् । कतमो देव आगमिष्थ आगन्तृतमोऽस्मद्यज्ञं प्रति । देवानामु देवानां मध्ये कतमो देवः शम्भविष्थः सुखस्य भावयितृतमः । एवमुक्तगुणविशिष्टः । को भवेत् अश्विनावन्तरेणेति भावः । कं रथं द्रवदश्वमाशुमाहुः । ब्रुवते । यं रथं सूर्यस्य दुहिता सूर्यस्य पत्न्यवृणीत । समभजत् ॥ तं कं रथं वेगवन्तमाहुः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९