मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४३, ऋक् ३

संहिता

म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् ।
दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथ॒ः शचि॑ष्ठा ॥

पदपाठः

म॒क्षु । हि । स्म॒ । गच्छ॑थः । ईव॑तः । द्यून् । इन्द्रः॑ । न । श॒क्तिम् । परि॑ऽतक्म्यायाम् ।
दि॒वः । आऽजा॑ता । दि॒व्या । सु॒ऽप॒र्णा । कया॑ । शची॑नाम् । भ॒व॒थः॒ । शचि॑ष्ठा ॥

सायणभाष्यम्

मक्षु शीघ्रम् । हि स्मेति पूरणौ । ईवतो गमनवत आगामिनो द्यून्दिवसान् सुत्यासम्बन्धिनः प्रति गच्छथः । इन्द्रः शक्तिं न स्वकीयां शक्तिं यथा परितक्म्यायां रात्रावतीतायाम् । प्रदर्शयतीति शेषः । स्तुत्याहन्युषःकाल इन्द्रो यथा गच्छति तद्वद्युवामपि गच्छतमित्यर्थः । दिवो द्युलोकादाजातागतौ दिव्या दिवि भवौ सुपर्णा शोभनगमनौ युवां शचीनां युष्मत्सम्बन्धिनां कर्मणां शक्तीनां वा मध्ये कया शच्या शचिष्ठा शक्तिमत्तरौ शोभनकर्मवन्तौ वा भवथः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९