मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४३, ऋक् ४

संहिता

का वां॑ भू॒दुप॑माति॒ः कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।
को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥

पदपाठः

का । वा॒म् । भू॒त् । उप॑ऽमातिः । कया॑ । नः॒ । आ । अ॒श्वि॒ना॒ । ग॒म॒थः॒ । हू॒यमा॑ना ।
कः । वा॒म् । म॒हः । चि॒त् । त्यज॑सः । अ॒भीके॑ । उ॒रु॒ष्यत॑म् । मा॒ध्वी॒ इति॑ । द॒स्रा॒ । नः॒ । ऊ॒ती ॥

सायणभाष्यम्

वां युवयोः कोपमातिः । उप समीपे मातिर्मानं गुणानां परिच्छित्तिर्यस्यां सा स्तुतिः का भूत् । भवेत् । कया स्तुत्या हूयमानावाहूयमानौ सन्तौ नोऽस्माना गमथः । आगच्छथः । वां युवयोरभीक आसन्नप्रदेशे महश्चिन्महतस्त्यजसः । त्यज्यते परित्यज्यते सर्वैरिति त्यजः क्रोभः । तस्य सोढा को भवेत् । हे माध्वी मधुररसस्योदकस्य स्रष्टारौ हे दस्रा शत्रूणामुपक्षपयितारावश्विनौ नोऽस्मानूती ऊत्या रक्षयोरुष्यतम् । रक्षाकर्मैतत् । रक्षतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९