मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४३, ऋक् ५

संहिता

उ॒रु वां॒ रथ॒ः परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वाम् ।
मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रज॑न्त प॒क्वाः ॥

पदपाठः

उ॒रु । वा॒म् । रथः॑ । परि॑ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर्त॑ते । वा॒म् ।
मध्वा॑ । मा॒ध्वी॒ इति॑ । मधु॑ । वा॒म् । प्रु॒षा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः॑ । भु॒रज॑न्त । प॒क्वाः ॥

सायणभाष्यम्

हे अश्विनौ वां रथो द्यां परि द्युलोकस्य परित उरु प्रभूतं नक्शति । गच्छति । यद्यस्मादा अर्वाक् समुद्रात्समुद्द्रवनसाधनादन्तरिक्षाद्वां प्रति अभिवर्तते । आभिमुख्येन गच्छति । हे माध्वी उक्तलक्षणौ मध्वा मधुरेन पयसा मधु मधुरं सोमरसं प्रुषायन् । सिञ्चन्त्यध्वर्यवः । यद्यस्मात्सीं सर्वतो वां पृक्षो युवयोः सोमं पक्वाः पक्वा यवा भुरजन्त । प्राप्नुवन्ति । तस्मादभिवर्तते वामिति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९