मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४४, ऋक् २

संहिता

यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथ॒ः शची॑भिः ।
यु॒वोर्वपु॑र॒भि पृक्ष॑ः सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥

पदपाठः

यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः ।
यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥

सायणभाष्यम्

हे दिवो नापातादित्यस्य पुत्रस्थानीयौ द्युलोकस्य वा न पातयितारौ हे अश्विनौ युवं युवां देवता देवते । विभक्तिव्यत्ययः । तां प्रसिद्धां श्रियं शचीभिः कर्मभिः शक्तिभिर्वा वनथः । सम्भजेथे । यद्वा । वदतिर्दानार्थः । युवोर्युवयोर्वपुः शरीरं पृक्शोऽन्नानि सोमलक्षणान्यभि सचन्ते । यद्यदा रथे वां वहन्ति ककुहासो महान्तोऽश्वाः । यद्वा । स्तुतयो वां युवां रथे वहन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०