मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४४, ऋक् ४

संहिता

हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम् ।
पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥

पदपाठः

हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।
पिबा॑थः । इत् । मधु॑नः । सो॒म्यस्य॑ । दध॑थः । रत्न॑म् । वि॒ध॒ते । जना॑य ॥

सायणभाष्यम्

हे पुरुभू बहु भवन्तौ नासत्याविमं यज्ञं हिरण्ययेन रथेनोपयातम् । सोमस्य सोमसम्बन्धिनो मधुनो मधुररसस्य । कर्मणि षष्ठ्यौ । सोमरसं पिबाथः । पिबथः । विधते परिचरते जनाय मह्यं रत्नं रमणीयं धनं दधथः । धारयथः । दधतेर्दानार्थस्य लेटि रूपम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०